Wednesday, March 8, 2023

Vishwanatha Ashtakam lyrics in Hindi | श्री विश्वनाथाष्टकम्

श्री विश्वनाथाष्टकम्



गङ्गातरंगरमणीयजटाकलापं
      गौरीनिरन्तरविभूषितवामभागम् ।
नारायणप्रियमनंगमदापहारं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ १॥

वाचामगोचरमनेकगुणस्वरूपं
      वागीशविष्णुसुरसेवितपादपीठम् ।
वामेनविग्रहवरेणकलत्रवन्तं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ २॥

भूताधिपं भुजगभूषणभूषितांगं
      व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशांकुशाभयवरप्रदशूलपाणिं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३॥

शीतांशुशोभितकिरीटविराजमानं
      भालेक्षणानलविशोषितपंचबाणम् ।
नागाधिपारचितभासुरकर्णपूरं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४॥

पंचाननं दुरितमत्तमतङ्गजानां
      नागान्तकं दनुजपुंगवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ५॥

तेजोमयं सगुणनिर्गुणमद्वितीयं
      आनन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ६॥

रागादिदोषरहितं स्वजनानुरागं
      वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरलाभिरामं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ७॥

आशां विहाय परिहृत्य परस्य निन्दां
      पापे रतिं च सुनिवार्य मनः समाधौ ।
आदाय हृत्कमलमध्यगतं परेशं
      वाराणसीपुरपतिं भज विश्वनाथम् ॥ ८॥

वाराणसीपुरपतेः स्तवनं शिवस्य
      व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
      सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९॥

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


No comments:

Post a Comment