Tuesday, January 24, 2023

Mahalakshmi Stuti by Indra from Vishnu Puran - Sri stuthi from vishnu purana - श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम्

 श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम् 


श्रीगणेशाय नमः ||

श्रीपराशर उवाच:-

सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः |
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः || 1 ||

इन्द्र उवाच:-

नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् |
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् || 2 ||

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् |
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम् || 3 ||

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी |
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती || 4 ||

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने |
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी || 5 ||

आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च |
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् || 6 ||

का त्वन्या त्वमृते देवि सर्वयज्ञमयं वपुः |
अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः || 7 ||

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् |
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् || 8 ||

दाराः पुत्रास्तथाऽऽगारं सुहृद्धान्यधनादिकम् |
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् || 9 ||

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् |
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् || 10 ||

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता |
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् || 11 ||

मनःकोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् |
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि || 12 ||

मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् |
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये || 13 ||

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः |
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले || 14 ||

त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः |
कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि || 15 ||

सश्लाघ्यः सगुणी धन्यः स कुलीनः स बुद्धिमान् |
स शूरः सचविक्रान्तो यस्त्वया देवि वीक्षितः || 16 ||

सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः |
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे || 17 ||

न ते वर्णयितुं शक्तागुणाञ्जिह्वाऽपि वेधसः |
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन || 18 ||

श्रीपराशर उवाच:-

एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् |
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज || 19 ||

श्रीरुवाच:-

परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरेः |
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता || 20 ||

इन्द्र उवाच:-

वरदा यदिमेदेवि वरार्हो यदिवाऽप्यहम् |
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः || 21 ||

स्तोत्रेण यस्तवैतेन त्वां स्तोष्यत्यब्धिसम्भवे |
स त्वया न परित्याज्यो द्वितीयोऽस्तुवरो मम || 22 ||

श्रीरुवाच:-

त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव |
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्ट्या || 23 ||

यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः |
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्गमुखी || 24 ||

श्रीपराशर उवाच:-

एवं वरं ददौ देवी देवराजाय वै पुरा |
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता || 25 ||

भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः |
देवदानवयत्नेन प्रसूताऽमृतमन्थने || 26 ||

एवं यदा जगत्स्वामी देवराजो जनार्दनः |
अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी || 27 ||

पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः |
यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम् || 28 ||

राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि |
अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी || 29 ||

देवत्वे देवदेहेयं मानुषत्वे च मानुषी |
विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम् || 30 ||

यश्चैतशृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः |
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् || 31 ||

पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने | 
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन || 32 ||

एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि |
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती || 33 ||

इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः |
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः || 34 ||

|| इति श्रीविष्णुपुराणे महालक्ष्मी स्तोत्रं सम्पूर्णम् ||

======================================

No comments:

Post a Comment